Om. The knower of Brahman attains the Supreme. On this it has been said: 'Brahman is the real, knowledge, the infinite. Whoever knows it as set down in the cave of the heart, in the highest heaven, attains all desires together, along with the wise Brahman.' From this Self, indeed, space arose; from space, wind; from wind, fire; from fire, water; from water, earth; from earth, plants; from plants, food; from food, the person. This person is made of the essence of food. This is his head; this the right side; this the left side; this the trunk; this the tail, the foundation. On this too there is this verse:
ॐ ब्रह्मविदाप्नोति परम् । तदेषाऽभ्युक्ता । सत्यं ज्ञानमनन्तं ब्रह्म । यो वेद निहितं गुहायां परमे व्योमन् । सोऽश्नुते सर्वान् कामान्सह । ब्रह्मणा विपश्चितेति ॥ तस्माद्वा एतस्मादात्मन आकाशः सम्भूतः । आकाशाद्वायुः । वायोरग्निः । अग्नेरापः । अद्भ्यः पृथिवी । पृथिव्या ओषधयः । ओषधीभ्योन्नम् । अन्नात्पुरुषः । स वा एष पुरुषोऽन्नरसमयः । तस्येदमेव शिरः । अयं दक्षिणः पक्षः । अयमुत्तरः पक्षः । अयमात्मा । इदं पुच्छं प्रतिष्ठा । तदप्येष श्लोको भवति ॥ १॥